पृष्ठम्:श्रीपरात्रिंशिका.pdf/२४०

पुटमेतत् सुपुष्टितम्
२१०
परात्रिंशिका

'पञ्च[१] विपर्ययभेदा भवन्सशक्तिश्च करणवैकल्यात् ।
 अष्टाविंशतिभेदा तुष्टिर्नवधाष्टधा सिद्धिः ॥'

इति हि एत एव प्रत्ययाः पाशवसृष्टिरूपाः पाशा मुख्यतया, यथोक्तम्

'स्वरूपावरणे चास्य शक्तयः सततोत्थिताः ।
यतः शब्दानुवेधेन न विना प्रत्ययोद्भवः ॥


तन्त्र गुणविभागः

'ऊर्ध्वे सश्वविशालस्तमोविशालश्च मूलतः सर्गः ।
 मध्ये रजोविशालो ब्रह्मादिस्तम्बपर्यन्तः ॥'

इति ब्राह्मप्राजापस्यैन्द्रपित्र्यगान्धर्वयाक्षराक्षसपैशाचा इत्यष्टधा दैवसर्गः। पशुमृगपक्षिसरीसृपस्थावराः पञ्चधा तिर्यग्योनिः । संस्थानस्य चतुर्वपि अविशेषादेक एवं मानुष्य इति ।


  1. अविद्यास्मितारागद्वेषाभिनिवेशास्तमोमोहमहामोहतामिस्त्रान्धतामिस्रसंज्ञकाः पञ्चेति, एकादशेन्द्रियवधाः सप्तदश बुद्धिवधा इत्यष्टाविंशतिः, आध्यात्मिकाश्चतस्रो बाह्याः पञ्चेति तुष्टयो नव, ऊहशब्दाध्ययनत्रिविधदुःखविघातसुहृत्प्राप्तिदानान्यष्टौ सिद्धयः । तत्राशक्तयः

    'बाधिर्ये कुष्टतान्धत्वं जडताजिघ्रता तथा ।
    मूकता कौण्यपङ्गुस्वक्लैव्योदावर्तमत्तताः ॥'

    इत्येकादश, एताबद्धेतुका बुद्धेरशक्तिः । स्वरूपतो बुद्धेरशक्तिविपर्ययात् तुष्टिसिद्धीनामित्युक्ता तुष्टिर्यथा प्रकृत्युपादानकालभाग्या आध्यात्मिकाः शब्दादयः पञ्चेत्युपरमा अपि पञ्च भवन्ति, उपरमश्च सेवादयो हि धनार्जनोपायाः सेवकादीन् दुःखाकुर्वन्तीति मत्वा दुःखावहकर्मणो निवर्तनम् ।