पृष्ठम्:श्रीपरात्रिंशिका.pdf/२४१

पुटमेतत् सुपुष्टितम्
२११
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता ।

इति । तथा


 'परामृतरसापायस्तस्य यः प्रत्ययोद्भवः ।'

इत्यादि, एवं प्रत्ययसृष्टित्वान्तरालीकरणेन स्फुटश्रूयमाणश्रुत्यात्मकक्रमाभासमानमायीयवर्णसृष्टिराद्यपारमार्थिकशुद्धरूपालिङ्गिता तत्तत्कार्यफलप्रसवदायिनी निरूपिता, श्रीपूर्वशास्त्रे

 'सर्वशास्त्रार्थगर्भिण्यै ॱॱॱॱॱॱॱॱॱॱॱॱॱॱॱॱॱॱॱॱ।'

इत्येवं-विधया


'

अनया संप्रबुद्धः सन्योनिं विक्षोभ्य शक्तितः ।
तत्समानश्रुतीन्वर्णांस्तत्संख्यानसृजत्प्रभुः ॥

'

इत्यादि,

 'तैस्तैरालिङ्गिताः सन्तः सर्वकामफलप्रदाः ।'

इत्याद्येवमाख्याता अप्रकटा मायान्धानां, सर्वदैव ख्याता प्रकाशा शुद्धवेदनात्मिका यस्याः

सर्वत्र स्वस्वभावात्मकप्रभावप्रख्या प्रसरानिरोधो यस्या इत्यामन्त्रणम् शोभनव्रते-इति । तदयमत्र संक्षेपार्थः