पृष्ठम्:श्रीपरात्रिंशिका.pdf/२४२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२१२
परात्रिंशिका


'स्वातत्र्यैकरसावेशचमत्कारैकलक्षणा ।
परा भगवती नित्यं भासते भैरवी स्वयम् ।।
तस्याः स्वभावयोगो यः सोऽनिरुद्धः सदोदितः
सदाशिवधरातिर्यङ्नीलपीतमुखादिभिः ।।
भासमानैः स्वस्वभावैः स्वयंप्रथनशालिभिः ।
प्रथते संविदाकारः स्वसंवेदनसारकः ।।
स्वस्वसंवेदनं नाम प्रमाणमिति वर्ण्यते ।
बालतिर्यक्सर्वविदां यत्साम्येनैव भासते ।।
इन्द्रियाणि त्रिरूपं च लिङ्गं परवचःक्रमः ।
सारूप्यमन्यथायोगः प्रतीत्यनुदयो यमः ॥
इत्यादिको यस्य सर्वं द्वारमात्रे निरूप्यते ।
तत्स्वसंवेदनं प्रोक्तमविच्छेदप्रथामयम् ।।
येषां नाक्षत्रिरूपादिनाममात्रेऽप्यभिज्ञता ।
तेषामपि तिरश्चां हि समा संवित्पकाशते ।।


 १ स्वस्मिन्नेव स्वेनैव संवेदनं नाम प्रकाशप्रकाशं तादृक्प्रकाशसत्तेत्यर्थः तेनात्र प्रमाणापेक्षा नापि काचिदित्यर्थः नहि स्वसंविद्रक्षितेर्थे प्रमाणापेक्षेति भावः ।

 २ बालेति किंचिज्ज्ञः । तिर्यगिति मूढः ।


 पं० ३ स्वभासायोग इति च पाठः ।

 पं० १३ क० पु० येनैवाक्षेति, ग० पु० येसां वाक्षेति पाठः ।

 पं० १४ ग० पु० सा सा संविदिति पाठः ।