पृष्ठम्:श्रीपरात्रिंशिका.pdf/२४४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२१४
परात्रिंशिका

परस्परसमापत्तिर्जगदानन्ददायिनी ।
अन्तःस्थविश्वपर्यन्तपारमार्थिकसद्वपुः ।।
यद्वीर्यमिति निर्णीतं तद्विश्लेषणयोजना ।
विसर्ग इति तत्प्रोक्तं ध्रुवधाम तदुच्यते ।
अनुत्तरपदावाप्तौ स एष सुघटो विधिः ।
अस्मादेव तु मायीयाद्वर्णपुञ्जानिरूपिता ।।
मायामालम्ब्य भिन्नैव श्रीपूर्वे सृष्टिराक्षरी ।
पञ्चाशद्भेदसंभिन्नप्रत्ययप्रसवात्मिका ॥
बन्धरूपा स्वभावेन स्वरूपावरणात्मिका ।
अत्रैवान्तर्गतास्तास्ताः खेचर्यो विषयात्मिकाः ।
तन्वते संसृतिं चित्रां कर्ममायाणुतामयीम् ।।


 १ यदुक्तं देवीभावनायां पञ्चस्तवीस्तोत्रे

'मूलालवालकुहरादुदिता भवानि
निर्भिद्य षट् सरसिजानि तडिल्लतेव ।
भूयोऽपि तत्र विशसि ध्रुवमण्डलेन्दु-
निःष्यन्दमानपरमामृततोयरूपा॥'

इति।

 २ यथा स्पन्दे

'परामृतरसापायस्तस्य यः प्रत्ययोद्भवः ।
तेनास्वतन्त्रतामेति स च तन्मात्रगोचरः॥'

इति प्रत्ययसर्गः।

 ३ अत्रेति अमायीये वर्णपुञ्जे।

 ४ द्विधा हि खेचर्यादिशक्तयः ताश्च खेचरीगोचरीदिक्चरीभूचरीरूपाः, द्विधात्वं च आसां परशक्तिपातपवित्रितानां चिदानन्दप्रसरो-