पृष्ठम्:श्रीपरात्रिंशिका.pdf/२४५

एतत् पृष्ठम् परिष्कृतम् अस्ति
२१५
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

अस्याः साम्यं स्वभावेन शुद्धभैरवतामयम् ।।
प्रोक्तं प्रागेव जीवत्वं मुक्तत्वं पारमार्थिकम् ।
भिन्नाया वर्णसृष्टेश्च तदभिन्नं वपुः परम् ।।
वीर्यमित्युक्तमत्रैव यद्गुप्त्या मन्त्रगुप्तता।
तदेतदहमित्येव विसर्गानुत्तरात्मकम् ।।
स्वस्वभावं परं जानञ्जीवन्मुक्तः सकृद्बुधः
सिद्ध्यादिप्रेप्सवस्तेन कॢप्तसंकोचसूत्रितम् ।।
नाभिकुण्डलहृद्व्योम्नो योगिनोऽहमुपासते ।
तदेतत्किल निर्णीतं यथागुर्वागमं मनाक् ।।
एनां संविदमालम्ब्य यत्स्यात्तत्पृच्छ्यतां स्ववित् ।
नैतावतैव तुलितं मार्गांशस्तु प्रदर्शितः ॥


द्वमनशीलतया अकालकलितत्वादभेदसर्वकर्तृत्वपूर्णत्वव्यापकत्वस्वरूपोन्मीलनपरमार्थतयेति, मायामोहितानां नानन्दप्रदतयाः शून्य प्रमातृभूमिचारितयाः कालकलाशुद्धविद्यारागनियतिमयतया बन्धयितृतयेतिः । गौर्वाक् तदुपलक्षितासु संजल्पमयीषु बुद्ध्यहंकारमनोभूमिषु चरन्ति गोचर्यः शक्तिपातवसां तु शुद्धाध्यवसायाभिमानसंकल्पपरोहिण्यः परेषां तु विपर्यासिन्यः । दिक्षु बाह्येन्द्रियेषु दशसु चरन्तीति दिक्चर्यः अनुगृहीतानामद्वयप्रथनसाराः परेषां तु द्वयप्रतीतिपातिन्यः । भूरूपादिपञ्चकं मेयपदं तत्र चरन्तीति तदाभोगमयाश्यानीभावेन तन्मयतामापन्ना भूचर्यः प्रबुद्धानां चित्प्रकाशशरीरतया स्फुरन्त्य इतरेषां सर्वतो व्यवच्छेदतां दर्शयन्त्य इति द्विधा स्थितिः । अत्र पुनर्बन्धाभिप्रायेणैव स्थितिः, यतो

'विषयात्मिका' इत्युक्तं 'पिञ् बन्धने' इति धास्वनुसारात् ।