पृष्ठम्:श्रीपरात्रिंशिका.pdf/२४७

एतत् पृष्ठम् परिष्कृतम् अस्ति
२१७
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता


सरि सुताए हुप आसत्त तअह सत्तमल हिंपुविसि विभेत विहंसः तमालि निमाइ अअह सुततस्मह भोअममण अइलं मरु निधुंऊ अपारहमरल पदुद्यो प्रन्तीप सारइ- मात द्वय भासि विगमइ विलाअनु सोधि अं असि तमर्थ अहिंसा अइपविमन्ती अ- लसइरसा मच्छेअरि परिदेवितरंगणि प्र- फऊ असुह सारंगिणि रितत्तस्म कीलालसा तुहि मत्तिदिविरह एणि हानुण पिज्जति जतस्माइ लालणमहो संमअलालसा ।


एवमुत्तरस्याप्यनुत्तरमिति यदुक्तम् 'तन्म- योऽसावुत्तरस्य' इत्यंशेनोपात्तः कुलात्मा शाक्तः स्मृष्टिप्रसरः स विस्तरतो निर्णीतः, तच्चोत्तर- मपि यथानुत्तरं तथा निरूपितम् , इदानीं त्वनुत्तरमेव स्वरूपेण विस्तरतो विचारपदवीम- पेक्षते, एवं विध्यनुवादौ निर्वहतो यदि अनू- द्यमानो विधीयमानश्चांशः स्वरूपतो लक्षितौ च स्यातां यथा यदेव शिवनामस्मरणमेतदेव समस्तसौख्योच्छलनमिति द्वावप्यंशो लक्ष्यो, 28