पृष्ठम्:श्रीपरात्रिंशिका.pdf/२४८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२१८
परात्रिंशिका

इह तु यद्यपि अनुत्तरं नाम अन्यद्वस्तु किंचिन्नास्ति - अन्यत्वे तस्याप्युत्तरत्वे एवाभिपातात् तथापि स्वातन्त्र्यकॢप्तोपदेश्योपदेशकभावाभिप्रायेणेयं व्यवस्था इत्युक्तं प्राक्, ततश्च विस्तरतोऽनुत्तरस्वरूपनिरूपणाय ग्रन्थान्तरावतारः- तन्निरूपयति

चतुर्दशयुतं भद्रे
 तिथीशान्तसमन्वितम् ॥९॥
तृतीयं ब्रह्म सुश्रोणि
 हृदयं भैरवात्मनः।
एतन्नायोगिनीजातो
 नारुद्रो लभते स्फुटम् ॥ १०॥
हृदयं देवदेवस्य
 सद्यो योगविमुक्तिदम्।
अस्योच्चारे कृते सम्यङ्-
 मन्त्रमुद्रागणो महान् ॥ ११॥