पृष्ठम्:श्रीपरात्रिंशिका.pdf/२४९

एतत् पृष्ठम् परिष्कृतम् अस्ति
२१९
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

सद्यस्तन्मुखतामेति
 स्वदेहावेशलक्षणम् ।
मुहूर्तं स्मरते यस्तु
 चुम्बकेनाभिमुद्रितः ॥ १२॥
स बध्नाति तदा सर्वं
 मन्त्रमुद्रागणं नरः ।
अतीतानागतानर्थान्
 पृष्टोऽसौ कथयत्यपि ॥ १३॥
प्रहराद्यदभिप्रेतं
 देवतारूपमुच्चरन् ।
साक्षात्पश्यत्यसंदिग्ध-
 माकृष्टं रुद्रशक्तिभिः ॥ १४॥
प्रहरद्वयमात्रेण
 व्योमस्थो जायते स्मरन् ।
त्रयेण मातरः सर्वा
 योगीश्वर्यो महाबलाः ॥ १५ ॥