पृष्ठम्:श्रीपरात्रिंशिका.pdf/२५०

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२०
परात्रिंशिका

वीरा वीरेश्वराः सिद्धा
 बलवाञ्छाकिनीगणः ।
आगत्य समयं दत्त्वा
 भैरवेण प्रचोदिताः ॥ १६॥
यच्छन्ति परमां सिद्धिं
 फलं यद्वा समीहितम् ।
अनेन सिद्धाः सेत्स्यन्ति
 साधयन्ति च मन्त्रिणः ॥ १७॥
यत्किंचिद्भैरवे तन्त्रे
 सर्वमस्मात्प्रसिद्ध्यति
अदृष्टमण्डलोऽप्येवं
 .………….॥ १८॥

 भैरवरूपस्य विश्वस्य प्रदर्शितयुक्त्यागमनिरूपितनररूपापराभट्टारिकास्वभावः शाक्तः, तस्य हृदयं सारं शिवरूपं परमेश्वर्या श्रीमत्पराभट्टारिकया समालिङ्गितं भैरवशब्देन विश्वस्य