पृष्ठम्:श्रीपरात्रिंशिका.pdf/२५४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२४
परात्रिंशिका

न्वितम् , यद्वा चतुर्दशसहितं युतं युग्मं षोडशतिथीनां पञ्चदशानामीशो विसर्गः तस्यान्तः सप्तदश्यनुत्तरकला तदन्वितं हृदयं-सर्वाणि घटसुखादीनि वस्तूनि तामेव बीजसत्तां परमार्थरूपेणाकामन्तीत्युक्तं विस्तरतः, अत एव तत् हृदयम्, एवं पोडशधा हृदयमेत् तत्रानुत्तरानुसारेण यदेतत् ब्रह्मसामरस्यं वेद्यवेदकयोश्चतसृणां दशानामुद्योगादीनां समाहारोऽविभागभूः प्राथमिकी, तया युतमविभागि,य एते तिथीनामीशा ऊकारान्ताः तत्प्रभवत्वादन्य[१]स्येति हि उक्तम् , तेषां तिथीशानामन्ता‌-अमृतवर्णाः चत्वारः तैः सम्यगन्वितम्, तच्च तृतीयं-नराद्यपेक्षया शिवरूपं परं, वेदकश्चतसृभिर्दशाभिरुल्लसन् वेद्यमेव ताभिराप्यायकौतुकात्मना ता एवामृतकलाः स्वात्मनि एकीकुर्वन् वेद्यवेदकक्षोभसमापत्त्या ऐकात्म्यलक्षण-


  1. 'स्वराणां पट्कमेवेह मूलं स्याद्वर्णसंततौ ।'
    इत्युक्त्वा।