पृष्ठम्:श्रीपरात्रिंशिका.pdf/२५५

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२५
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

प्रसंख्यानेनाभ्यासेन वा गम्यं भैरवात्मना विश्वहृदयमनुत्तरं प्रविशेत् । यथोक्तम्

'सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।'

इति । इच्छोल्लसत्तात्मनि आनन्दशक्तौ यदेतत् संहृत्य अनुसृत्या क्रियाशक्तिमपेक्ष्य तृतीयं रूपमिच्छात्म तदेव प्राक्को[१]टाविष्यमाणाद्यकलुषं ब्रह्म चतुर्ये दश चत्वारिंशत् भैरवभेदापेक्षया परभैरवपरशक्तित्रयसहितानि तत्त्वानि,यथोक्तम्

'षट्रिंशच्छोधनीयानि शोधको भैरवः परः ।
[२]परं त्रिकं तु करणं दीक्षेयं पारमार्थिकी ॥'


पं. ६ ग. पु. प्राक्कादाविष्यमाणेति पाठः ।
29


  1. प्राक्कोटौ हीप्यमाणादिना कलुपम् इति कथं ब्रह्म? इत्यतः प्राच्यभागेऽकलुपमिति तात्पर्यम् ।
  2. परं त्रिकमिति यथादौ निबद्धम्
    'विमलकलाश्रयाभिनवसृष्टिमहा जननी
     भरिततनुश्च पञ्चमुखगुप्तरुचिर्जनकः।
    तदुभययामलस्फुरितभावनिसर्गमयं
     हृदयमनुत्तरामृतकुलं मम संस्फुरतात् ॥'
    इति । करणं शोधनोपायः