पृष्ठम्:श्रीपरात्रिंशिका.pdf/२५६

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२६
परात्रिंशिका

 इत्यादि तैर्युतम्, आनन्दशक्तिर्हि प्रागपररूपा पूर्णा कथं तिथीशैर्बीजैः तदन्तैश्च योनिरूपधरादिभिः समन्वितम्-इति क्रियाविशेषणम्,तदेव हृदयं, सर्वत्रात्र सकृद्विभातं प्रसंख्यानगम्यं रूपं मुख्यतः तत्र, योग्यानां तु परशक्तिपातपवित्रितानां वृथैन्द्रजालिककलनालालसानां वा योगाभ्यास इति मन्तव्यम् ।

 इच्छाभिप्रायेण तृतीयमिच्छा, तच्च वृंहितमिष्यमाणेनाभिन्नेन पूर्णं ब्रह्म चतुर्दश चत्वारिंशद्युतानि निर्विभागभाञ्जि यतोऽन्तरं युतशब्दो विभक्तवाच्यपि युतसि[१]द्धत्वादित्यादौ, तिथीश्वरस्य कुलमयानुत्तरकलात्मनोऽन्तः आनन्दःतस्यानु-पश्चात् सम्यगितं बोधमयम् ।

 ईशानापेक्षया तृतीयमिच्छारूपं प्रसरवशादृहद्भूतमीशानतापन्नं चतुर्दशानां चत्वारिंशत


११ ग. पु.तिथीश्वरस्यानुत्तरेति पाठः ।


  1. अयुतसिद्धयोः संबन्धः समवाय इत्यत्र युतसिद्धयोरपृथसिद्धयोरित्यर्थः यथामुमेवाभिप्रायमन्तःकृत्य यु-मिश्रणेऽमिश्रणे चेति सिद्धान्तकौमुद्यां पठितम् ।