पृष्ठम्:श्रीपरात्रिंशिका.pdf/२५८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२८
परात्रिंशिका

युतं तृतीयं ब्रह्मेच्छाख्यं तिथीश्वरस्यार्कस्य अन्तेन बाह्येन तेजसान्वितम् ।

 व्याख्यातक्रमेण तृतीयं ब्रह्मेशनम् एतदपि एवमेव ।

 तृतीयं ब्रह्मेच्छाख्यं चतुर्णां नभःप्रभृतीनामन्तर्दशा यत्र साधारतया समन्वितं तिथीशा- न्तस्य वह्नेः तेजसो यदनुसरद्रूपं तेन सहितं व्योमात्म।

 तथैव तृतीयं ब्रह्म चतुर्दशयुतं तिथीशान्तसमन्वितं परिपूर्णशून्यरूपप्लुत्या भैरवात्म ।

 इच्छा खलु निजस्वभावभूतेशनसहिता वेद्यभूमेर्व्योमसत्तां यदाकामति तदा किंचित्प्रका- शभुवि विश्रम्य झटिति अपर्यन्तां काष्ठपाषणप्रायां निश्चलां व्योमभूमिमनुप्रविशति यत्रापवेद्यसुषुप्तमहाव्योमानुप्रविष्टान् योगिनःप्रत्युच्यते

'भेरीकांस्यनिनादोऽपि व्युत्थानाय न कल्पते।'

इत्यादि।


पं० ६ क० ग० पु० अन्तदशेति पाठः ।