पृष्ठम्:श्रीपरात्रिंशिका.pdf/२६०

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३०
परात्रिंशिका

'ए-ओकारगतं बीजं वाग्विधानाय केवलम् ।'

इत्यादि, पञ्चमषष्ठवर्णद्वयेन यदुक्तं 'चतुर्दशयुतं तृतीयं ब्रह्म तिथीशान्तसमन्वितं' तदेव भैरवास्मानुत्तरपदानुप्रविष्टम् , एतत् ब्रह्म चत्वारिंशद्युतमुक्तनीत्या तिथीशान्तसमन्वितं भैरवात्मवेदनरूपतया बिन्द्वात्मकं हृदयम्, सकलमिदं तत्त्वजालं भैरवात्मतयोच्छलत् अत एव बहिविसृज्यमानं वृंहितं ब्रह्म विसर्गात्मकं बहिःस्थितं च भैरवात्मतयैकीभूतं भेदात्मकव्यवच्छेददारिद्यापसारणेन सर्वसर्वात्मकपदप्रात्या वृंहितम्-इति विसर्गपदं, निर्णीतं चैतदवधानेन ।

 एवं षोडशात्मिका बीजव्याप्तिरुक्ता । योनिव्याप्तिस्तु प्रतिवर्णं प्रागेवोक्ता, वर्गीकरणाभिप्रायेण तु निरूपणीया, बाल्ययौवनस्थाविरदेहान्तरग्रहणरूपदशाचतुष्टयसमाहारमयं पाञ्चभौतिकमन्तः तिथीशान्तेन प्रवेशनिर्गमनात्मना प्राणापानरूपेण युतं तृतीयं च पुर्यष्टकात्म ब्रह्म