पृष्ठम्:श्रीपरात्रिंशिका.pdf/२६१

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३१
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

बृहत्त्वाच्च शून्यम्, अत्र च यत् हृदयं शक्त्यात्म, त एते सर्व एव शरीरमाणपुर्यष्टकशून्यतुर्यशक्तिरूपा बोधात्मकशिवबीजसातिशयघनताक्रमप्राप्तक्रमिकतथाभावा बाह्यात्मभूतात्मातिवाहिकात्मान्तरात्मपरमात्मव्यपदेश्याः प्रमातारः,एतद्धैरवात्म हृदयम्,प्रवेशोपायोऽत्र-[१]सर्वाःप्रमातृभूमीरनवच्छेदेनाकामेत् अन्तर्बहिष्करणत्रयोदशकं प्रकृत्या सह च चतुर्दश चत्वारिंशद्युतं द्विगुणितमशीतिः, तिथयः पञ्चदश, ईशा


  1. सर्वाः प्रमातृभूमीरिति, यदुक्तम् '

    सर्वाः शक्तीदर्शनस्पर्शनाद्याः
     स्वे स्वे वेद्ये योगपद्येन सम्यक् ।
    क्षित्वा मध्ये स्फाटिकस्तम्भभूत-
     स्तिष्ठन्विश्वाधार एकोऽवभासि ।'

    इति । तथा

    'बहिष्करणबुद्यहंकृतिमनःसुपुन्नाश्रया-
     चतुर्दशसु चण्डिके पथिषु येन येन व्रजेत् ।
    कला शिवनिकेतनं जननि तन्त्र सा ताशी
     दशोदयति दुर्लभा जगति या सुरैरप्यहो ।'

    इति ।