पृष्ठम्:श्रीपरात्रिंशिका.pdf/२६४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३४
परात्रिंशिका


मूलं तदेव भवजीर्णतरोः
...............॥

इति । अन्नायं संक्षेपः- यथोक्तमनेनैव - नान्न भक्ष्याभक्ष्यशुध्यशुद्धिविवेचनया वस्तुधर्मोज्झितया स्वात्मा खेदनीय इति । नहि शुद्यशुद्धी वस्तुनो रूपं परमार्थतः तयोः परस्परब्यभिचारदर्शनात् ।

'धीरैरेकत्र या शुद्धिस्तत्राशुद्धिः परैः स्मृता ।
विहितत्वेऽपि दानस्य दीक्षितस्वे यथा पुनः ॥
कल्पनामानमेवैतत्तस्मात्सद्भिरुपेयताम् ।
न कल्पना सत्यतो वै मिथ्येयमिति निश्चयः॥
तस्मादत्रोत्तरत्वं हि चोदनाप्रविचारणे ।
एतत्खलु ह्यसंदिग्धं वादिनः प्रतिवादिनः ॥'

इति । तत्रेत्थं विचारणा - चोदना ह्यबाध्येति मीमांसकवाक्येन कथमशुद्धमिति चेत् न, शिवचोदनाया एव बाधितत्वं युक्तिसिद्धं, यथा

'संकोचतारतम्येन पाशवं ज्ञानमीरितम् ।
विकासतारतम्येन पतिज्ञानं तु बाधकम् ॥'

इति । तथा शिवोपनिषदि

'किंचिज्ञैर्या स्मृता शुद्धिः सा शुद्धिः शंभुदर्शने ।
न शुद्धिः................॥

इति । उकंच

'यो निश्चयः पशुजनस्य जडोऽस्मि कर्म-
 संपाशितोऽस्मि मलिनोऽस्मि परेरितोऽस्मि ।
इत्येतदन्यदृढनिश्चयलाभसिध्या
 सद्यः पतिर्भवति विश्वचपुश्चिदात्मा ॥।

इति ।