पृष्ठम्:श्रीपरात्रिंशिका.pdf/२६५

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३५
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

र्भवेत् - इति प्रबुद्धैः कल्पिता, बालान् प्रति च कल्प्यमानापि च तेषां रूढा वैचित्र्येणैव फलति, अत एव वैचित्र्यकल्पनादेव सा बहुविधध- र्मादिशब्दनिर्देश्या प्रतिशास्त्रं प्रतिदेशं चा- न्यान्यरूपा, यथोक्तम्

'ग्ला[१]निर्विलुण्ठिका देह……..

इति । सेयं यदा झटिति विगलिता भवति तदा निरस्तपाशवयन्त्रणाकलङ्को भैरवहृदयानु- प्रविष्टो भवति-इति सर्वथा एतदभ्यासे यति- तव्यम्, श्रीतिलकशास्त्रेऽयं भावः । श्रीभर्गशि- खायामपि उक्तम्

'वीरव्रतं चाभिनन्देद्यथायोगं तथाभ्यसेत् ।

इत्यादि । श्रीसर्वाचारेऽपि

'अज्ञानाच्छङ्कते मूढस्ततः सृष्टिश्च संहृतिः ।
मन्त्रा वर्णात्मकाः सर्वे वर्णाः सर्वे शिवात्मकाः ।।


  1. यथा स्पन्दे
    ग्लानिविलुण्ठिका देहे तस्याश्चाज्ञानतः सतिः ।
    तदुन्मेपविलुप्तं चेत्कुतः सा स्यादहेतुका ॥'
    इति ।