पृष्ठम्:श्रीपरात्रिंशिका.pdf/२६६

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३६
परात्रिंशिका

पेयापेयं स्मृता आपो भक्ष्याभक्ष्यं तु पार्थिवम् ।
सुरूपं च विरूपं च तत्सर्वं तेज उच्यते ।।
स्पृश्यास्पृश्यौ स्मृतो वायुश्छिद्रमाकाश उच्यते ।
नैवेद्यं च निवेदी च नैवेद्यं गृह्यते च यत् ।।
सर्वं पञ्चात्मक देवि न तेन रहितं क्वचित् ।
इच्छामुत्पादयेदात्मा कथं शङ्का विधीयते ।'

इति । श्रीवीरावलिशास्त्रेऽपि अयमेवाभिप्रायः, उक्तं च क्रमस्तोत्रे

'सर्वार्थसंकर्षणसंयमस्य
 यमस्य यन्तुर्जगतो यमाय ।
वपुर्महाग्रासविलाससक्तं
 संकर्षयन्तीं प्रणमामि कालीम् ।।'

इति । व्याख्यातं चैतन्मया तट्टीकायामेव क्रम- केलौ विस्तरतः, अत एव षडर्धशास्त्रेष्वेषैव क्रिया प्रायो नियन्त्रणारहितत्वेन पूजा, तत्परि- पूरणायैव सर्वद्रव्यालाभात् संवत्सरमध्ये चतु- स्त्रिर्द्विःसकृद्वा पवित्रकविधिरुक्तः ।

क्रियायाः पूरणार्थाय यागाज्ञापूरणाय च ।
चतुः सकृद्धा यः कुर्यान्न पवित्रं स निष्फलः ॥'