पृष्ठम्:श्रीपरात्रिंशिका.pdf/२६७

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३७
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

इति विज्ञानक्रमो विस्तरत उक्तः। जातीनां च ब्राह्मणादीनां नास्ति स्थितिः- कल्पितत्वात् , उपदेशव्यङ्गतेति तु दुर्बुद्धीन् पशून् प्रत्याययेत् - इति च भगवता मुकुटसंहितायां विस्तरतो निर्णीतम् , इह तु अयत्नसिद्धमेव । गुणा इच्छाद्या निर्णीताश्चतुर्दश, स्वरेभ्य ओकारऔकारमध्यगःतिथीशान्तो विसर्गः तृतीयं ब्रह्म ष-हमध्यगम् , एतद्वीजं वस्तुतो विश्वस्य, तथाहि-यत्किंचित् सत् पार्थिवप्राकृतमायीयरूपं

भासते तत् इच्छायां ज्ञाने वा क्रियायां वा पतितमपि सर्वात्मकत्वात् त्रिकरूपं परत्र शिवपदे विस्मृज्यते सर्वं च शिवपदात् विमृज्यते - इत्यविरतमेष एव प्रवन्धो निर्विकल्पकः, विकल्पोऽपि प्रमदारातिप्रभृतिरेवंकार्यभूत् , अत एवंकारी भवति, एवंकारी भविष्यतीति वर्तमानकालत्रयानुसंधितो भेदपरमार्थतयैव विसर्गः


पं० ६ ग० पु० तेभ्य ओंकार-औकारमध्यग इति, क० पु० खरेभ्य अंकार-औकारेति, ख० पु० स्वरेभ्य ओंकारी मध्यगौ यस्य तिथीशान्तेति पाठः।
पं० ११ क० पु० त्रिकं रूडमिति, ग पु० त्रिकरूढमिति पाठः ।