पृष्ठम्:श्रीपरात्रिंशिका.pdf/२६८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३८
परात्रिंशिका

इति प्रत्युत मोक्षमयशिवभूमिरेव सदैव दैव- दग्धानां संसारभयमरुमहाटवी संपन्ना ।

जलात्स्फूर्जज्वालाजटिलबडवावन्हिनिवहः
 मुघाधाम्नः पूर्णाद्भयसदनदम्भोलिंदलना ।
विकल्यादैश्वर्यप्रसरसरणेः संमृतिदरः
 कियच्चित्रं चित्रं हतविधिविकासात्मसरति ।

ईश्वरप्रत्यभिज्ञायामप्युक्तम्

'सर्वो ममायं विभव इत्येवं परिजानतः ।
विश्वात्मनो विकल्पानां प्रसरेऽपि महेर्शता ।'

इति । यथा चाकृतिमध्य एव चतुर्भुजत्रिनयन- पूर्णकृशाद्या आकृतयो द्रव्यमध्ये च सुरासवा-

१ दशम्याः पूर्णिमान्तं चन्द्रस्य पूर्णत्वं, ततश्चाशन्युद्गमः इति शास्त्रम् । २ नहि प्रत्यगारमा नाम पशुरन्यः कश्चित् अन्योऽपि अहम् अपि तु परिगृहीतग्राह्यग्राहकप्रकाशघनो यः स एवाहं सचाहमेव न त्वन्यः कश्चित् , अतो विकल्पसृष्टिरपि मम स्वातन्त्र्यलक्षणो विभव इत्येवं विमर्शे दृढीभूते सत्यपरिक्षीणविकल्पोऽपि जीवन्नेव मुक्तः । यथोक्तम् 'शङ्कापि नो विशङ्कयेत निःशङ्कस्वमिदं स्फुटम् ॥' इति ।

पं०६ ग. पु० विघातादिति पाठः ।