पृष्ठम्:श्रीपरात्रिंशिका.pdf/२६९

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३९
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

द्या वलादेव तां सत्तां समधिशाययन्तीव लिप्य- क्षराणीव सती अवर्णभूमिः- इत्युत्कर्षभागि- त्वमेषाम् , एवं सर्ववर्णमध्येऽपि अयं वर्णः, तथाहि-सकारस्तावत् परमानन्दामृतस्वभाव उल्लसन् एव समस्तं वर्णजालमाक्षिप्य उल्ल- सति यद्यत्सत्यसुखसंपत्सत्तादीनां पारमार्थिकं वपुः सीत्कारसमुल्लासशेपकम्पवराङ्गसंकोचवि- कासोपलक्ष्यम् तदेव हि सत्यादीनाममायीयं वस्तुतो रूपं, तथाहि परहृदयग्रहणेङ्गितनिपुणा गगनगवयगवाद्यनन्तपदप्राङ्मध्यान्तभाविनोऽ- पि गकारादिमात्रादेवाभीष्टं चिन्वते-तावति


१ एषामिति चतुर्भुजादीनां लिप्यक्षराणां चेति । २ वर्ण इति- अयमुस्कर्षभागी इति शेषः । ३ स्वभाव इति, यदुक्तम् 'कामस्य पूर्णता तत्वं संघ प्रविभाज्यते । विषयस्यामृतं तत्त्वं च्छाद्यत्वेऽयोश्च्युते सति ॥' इति । पं० २ क० पु० क्षराण्येव परवर्णभूमिमित्युत्कर्षेति, ग• पु० क्षराणीव सत्यवर्णभूमिमिति पाठः।

पं० ८ ख. पु. सत्तादीनामिति पाठः ।