पृष्ठम्:श्रीपरात्रिंशिका.pdf/२७०

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४०
परात्रिंशिका

सत्यपदेऽनुप्रवेशात् , एवमेकैकस्यैव वर्णस्य वा- स्तवं वाचकत्वम् यथोक्तम्

'शब्दार्थप्रत्ययानामितरेतराघ्यासात्संकरः
तत्प्रविभागसंयमात्सर्वभूतरुतज्ञानम् ।'
    (यो० सू० ३-१७)

इति, अत एव प्रायशोऽमी अकार-चकाराद्या एकवर्णात्मानो निपातविभक्त्यादयो मायाप- देऽपि पारमार्थिकमिव प्रमातृपदलीनमिदन्ता- पराङ्मुखमसत्त्वभूतं तत्तन्निषिध्यमानसमुच्चीयमा- नाभिन्नरूपनिषेधसमुच्चयादिकमर्थमभिदधति, एष एव भावस्तत्रभवतो भर्तृहरेः, यदाह

१ तेषां शब्दार्थप्रत्ययानां यः प्रविभागः तत्र संयमात् 'त्रयमेकत्र संयम' इति पारिभाषिकसंज्ञा संयमस्य । २ यथान्न 'निपतन्ति परनिष्ठेवर्थेषु इति निपाताः' लिङ्गसंख्याका- रककृतविशेषाभावात् असत्त्वं, यदुक्तमीश्वरप्रत्यभिज्ञायाम् 'नाहन्तादिपरामर्शभेदादस्यान्यतात्मनः । अहं मृश्यतयैवास्य सृष्टेस्तिवाच्यकर्मवत् ॥' इति । अत्र प्रकृतोपयोगार्थमुपमानोपमेययोः वैपरीत्यं कल्पनीयं, यथा प्रत्ययविकल्पसमुच्चयादिरूपनिपातासत्वभूतशक्तिभिः निषिध्यमानसमु- चीयमानव्यतिरिक्तोऽर्थो नाभिधीयते, यथा अहन्तेश्वरात्मादिभिरहमृश्य-

तयैव सृष्टेरव्यरिक्तोऽर्थोऽभिधीयते नेश्वर आत्मेत्यादि ।