पृष्ठम्:श्रीपरात्रिंशिका.pdf/२७१

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४१
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

'पदमायं पृथक्सर्वं पदं साकाङ्क्षमित्यपि ।'

इति वाक्यविचारे । तथा च वेदव्याकरणे पार- मेश्वरेषु शास्त्रेषु मन्त्रदीक्षादिशब्देषु अक्षरवर्ण- साम्यात् निर्वचनमुपपन्नं, तेत्तु न रूढं-निय- तिवशादिति न लोकपर्यन्तं, तदेवं सकार ई- दृशः, औकारविसर्गावपि व्याख्यातौ, तदुक्तं श्रीपूर्वशास्त्रे

सार्णेन त्रितयं व्याप्तं त्रिशूलेन चतुर्थकम् ।
सर्वातीतं विसर्गेण परा व्याप्तिरुदाहृता ।'

इति । तथा

१ साकांक्षम् - इतरेतराध्यासात् । २ ननु च यद्येवं तत् सर्वत्राक्षरवर्णमूलत्वात् सर्वस्य सर्वत्रैवाक्षर- वर्णसाम्येनैव निर्वचनं प्राप्तं तन्मूलत्वात् पदवाक्ययोः मूलं परित्यज्य शाखां गृह्णतो हि महाननर्थः स्यादित्यत आह ' तत्तु' इत्यादि, कुत इति हेतुमाह 'नियतिवशादिति' परमेश्वरेण हि सवै नियतिशक्त्या स्थापित ततश्च बह्वक्षरसंहत्यास्य पदस्यायमेवार्थ इति नियम इत्यर्थः । ३ त्रयोऽवयवा अस्याः संख्याया इति त्रितयं त्रिसंख्याकमण्डं, तच्च पार्थिवप्राकृतमायीयाभिधानं तच्च सकारवणेन व्याप्तं तत्पर्यन्तं सकारस्य च्याप्तिरित्यर्थः, त्रिशूलेन चतुर्थकमिति चतुर्थक शाक्तमण्डं तच्च त्रिशूलेन- औ-बीजेन, पूर्ववत् पट्त्रिंशदुक्त्वा तदतीतमाह सर्वेति, स्पष्टम् - इयं परा दीक्षेति भावः ।

31