पृष्ठम्:श्रीपरात्रिंशिका.pdf/२७२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४२
परात्रिंशिका

'शिष्येणापि तदा ग्राह्या यदा संतोषितो गुरुः ।
शरीरद्रव्यविज्ञानजातिकर्मगुणादिभिः ॥
भेदिता तु यदा तेन गुरुणा हृष्टचेतसा ।
तदा सिद्धिमदा ज्ञेया नान्यथा वीरवन्दिते ॥'

इति । अन्यत्रापि

'एकं सृष्टिमयं बीजमें"…………….

इति । अत एवालेख्यं पुस्तके इति नियमः, श्री पूर्वशास्त्रेऽपि

'वामजङ्घान्वितो जीवः पारम्पर्यक्रमागतः ।'

इति । इहापि वक्ष्यते

यथा न्यग्रोधबीजस्थः…………….

इति । तदेतत् भैरवात्मनो हृदयं-मालिन्यपे- क्षया नकारत्वात्, वस्तुतस्तु अकाराद्योगिन्याश्च

१ अन्यशास्त्रशिक्षया । २ यदुक्तम् एकं सृष्टिमयं बीजमेका मुद्रा च खेचरी । द्वावेतो यस्य जायते सोऽतिशान्तपदे स्थितः॥' .... इति ।

पं०३ ग० पु० बोधिता इति पाठः ।