पृष्ठम्:श्रीपरात्रिंशिका.pdf/२७३

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४३
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

विसर्गशक्तेः जातः प्रादुर्भूतप्रमातृभावो रुद्रो रोधको द्रावकश्च पाशानां, स एव ना-पुरुषः, एतत् स्फुट लभते, न तु अरुद्रो नापि अयोगि- नीगर्भसंभवः, सद्योयोगो भैरवैकात्म्यं, स एव मोक्षो निर्णीतः तं ददातीति यो लभते स एवं- विधो नान्यः, यश्चैवंविधः स स्फुटं लभते, एवं हृदयमेव लभते - सद्योयोगविमोक्षदमेवेति सर्वतो नियमः, मन्त्रा वर्णभट्टारका लौकिकपार- मेश्वरादिरूपा मननत्राणरूपाः विकल्पसंवि- न्मयाः, मुद्राश्च सकलकरचरणादिकरणव्यापा- रमय्यः क्रियाशक्तिरूपाः तत्कृतो गणः समूहा- त्मपरशक्त्येकरूपः स्वस्यात्मनःप्राणपुर्यष्टकशू-

१ ययोक्तम् मोक्षश्च नाम नैवान्यः स्वरूपप्रथनं हि सः । स्वरूपं चात्मनः संवित्" इति । २ एवंविधो योगिनीजो रुद्रश्चेत्यर्थसिद्धम् । ३ मनु अवयोधने, त्रैङ् पालने इति धातुभ्याम् ।

.........