पृष्ठम्:श्रीपरात्रिंशिका.pdf/२७४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४४
परात्रिंशिका

न्यादेः देहस्य य आवेशः- झटिति परस्वरूपा- नुप्रवेशेन पारतन्त्र्यात्मकजडतातिरोधानेन स्वत- न्त्रकर्तृतानुविद्धप्रमातृतोदयः, तथा स्वं स्वभावं पदार्थस्य ददातीति स्वदा, ईहा इच्छाद्या क्रि- यान्ता तया अवेशः तदेव लक्षणं यत्र तथा कृत्वा य उदेति सोऽस्य बीजस्योच्चारे ऊर्ध्वच- रणे स्थितौ सत्याम् , अस्य अकारस्य यथैतत् तथा निर्णीतं बहुशः, सद्य इत्यनेन स् अत् इत्य- नुप्रवेशः सूच्यते तन्मुखतां तत्पररूपप्राधान्य- मेति, न तु पशूनामिव तद्रूपं प्रत्युत तिरोधत्ते,

१ ययेश्वरप्रत्यभिज्ञायाम् 'कलोलितमेतच्च चित्तत्त्वं कर्तृतामयम् । अचिद्रूपस्य शून्यादेर्मितं गुणतया स्थितम् ॥ मुख्यत्वं कर्तृतायाश्च बोधस्य च चिदात्मनः । शून्यादौ तद्गुणे ज्ञानं तरसमावेशलक्षणम् ॥' इति, अत्रायं भावः - मलेन संविद्भागस्य निमज्जनात् कर्तृतामयं चिद्रूपस्य तत्त्वं स्वातन्त्र्याख्यं कलाख्येन तत्त्वेनोपोद्वलितं मलेन न्यक्कृतं सदुद्बलि- तमिदन्तापन्नदेहादिशून्यान्तप्रमेयभागनिमग्नं यदापि परामृष्टतथाभूत- वैभवनित्यत्वैश्वर्यादिधर्मसंभेदेनैवाहंभावेन शून्यादि देहान्तं विध्यते तदा

तुर्यतेति ।