पृष्ठम्:श्रीपरात्रिंशिका.pdf/२७५

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४५
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

अत एव मुहूर्तम् - अकालकलितत्वेऽपि परक- लनापेक्षया उन्मेषमात्रं, यः स्मरति-अनुसं- धत्ते स एव व्याख्यातं मन्त्रमुद्रागणं संबध्नाति- स्वात्मन्येकीकरोति अद्वयतः, कथं? -चुम्ब- केने विश्वस्पर्शकेन शाक्तेन रूपेणाभितः सर्व- तो मुद्रितं मुद्रणं कृत्वा, तुरवधारणे, य एव शाक्तस्पन्दमुद्रित एवंविधतत्त्वमयशिवरूपानु- संधायकः स एवैवं करोति न तु नरैकरूपः पाषाणादिः, यदतीतं यच्चानागतं यदनर्थरूपं प्रागन्याभावात् इतरदपि स एव कथयति- कथापर्यन्ततां नयति, असंकल्पनात्, कथं ?

पृष्टः प्रश्ने ज्ञीप्सा
 पृष्टं तद्यस्यास्ति स तथा ।
यदेव किल ज्ञीप्सति
 तत्तदेवान्तर्गतं बहिष्कुरुते ।।

यथोक्तम्

'यथेच्छाभ्यर्थितो धाता जाग्रतोऽर्थान्हृदि स्थितान् ।
सोममूर्योदयं कृत्वा संपादयति देहिनः॥"

, चुबि वक्रसंयोगे इति धास्वनुसारात् ।