पृष्ठम्:श्रीपरात्रिंशिका.pdf/२७६

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४६
परात्रिंशिका

इत्यादि । एको हि असौ स्मरणोत्प्रेक्षणादा- वपि तावानेव वर्तमानो न स्तो भूतभविष्यती, यथोक्तं

'कालोभयापरिच्छिन्नम्……………."

इत्यादि । प्राग्भवत एवानधिकरूपस्य पुनरिदं जानाति करोति इत्यादिसंकोचासहिष्णोः सकृ- द्विभातत्वम् , अत एवोक्तं 'भूताद्यपेक्षया वर्त- मानकालस्य तदभावे वस्तुतोऽप्रसक्तेः अका- लकलितत्वमेव वस्तुतत्त्वम्' इति हि उक्तम- सकृत्, स एव तु कालशक्तिमवभासयति चित्राम् ।

'किं च जाग्रति कस्मिंश्चिद्धटिकाभिमतापि या।
तस्यामेव प्रमातारः स्वप्नगाश्चित्रताजुषः ।
दिनमहरवर्षादिवैचित्र्यमपि चिन्वते ॥'

इति नीत्या प्रकृष्टो हरः संहारोऽकुलाख्यः ततो- ऽनन्तरमभिप्रेतं प्रेतशब्दवाच्यसदाशिवतत्त्व-


पं० २ ख० पु० वर्तमाने इति पाठः ।

पं० १४ ख० पु० तन्वते इत्यपि पाठान्तरम् ।