पृष्ठम्:श्रीपरात्रिंशिका.pdf/२७९

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४९
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

रूपत्वात्, वीरा-बुद्धिक्रियेन्द्रियाख्याः तेऽपि सिद्धा एव, तेषामपि चेश्वराः कादिवर्णात्मानः तेऽपि सिद्धाः, तत् कादिवर्णोद्धारोदितश्च ब्रा- ह्यादिदेवतात्मा तत्तद्वेषरागादिचित्तवृत्तिरस- मयः शक्तिसमूहः सोऽपि सिद्ध एव, अत एव बलवान् , एते सर्वे संभूय पराज्ञया-परस्य मां मानमयीम् असौ पर इति विकल्पात्मिकां सि- द्धिम् , यद्वा समीहितं फलमेव 'अहं' ददति प्रयच्छन्ति, अज्ञातार्थक्रिये ज्ञातार्थक्रिये च एष क्रमेण विकल्पयोगः, किं बहुना ये मन्त्रिणोऽ- परकुलान्तमन्त्रसिद्धा अपि साधयन्त्यपि च तेऽपि अनेन हृदयेन सेत्स्यन्ति जीवन्मुक्ताः- एतेन विना पारमार्थिकी सिद्धिर्न भवतीति भावः। 'यत्किंचिद्भैरवेत्यादि' तथा ये सिद्धाः साधयन्ति च ये च सेत्स्यन्ति अणिमादियोगात् तेऽपि अनेनैव योगेन, नहि एतद्धृदयानुप्रवेशं

पं. ७ ख० पु० मानमयो असाविति, ग० पु० मांसान्नमयमसाविति तथा अहंकारं ददाति इति च पाठः ।

32