पृष्ठम्:श्रीपरात्रिंशिका.pdf/२८०

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५०
परात्रिंशिका

विना व्यावहारिक्यपि सिद्धिः, यतो-भैरवे वि- श्वात्मनि तन्त्रे क्रियाकलापे यत् किंचित् सिद्धि- जातं तदत एव, एवमेष परमेश्वर एव हृद- यात्मा एवंरूपतया शक्तित्रितयवृंहितसततोद- यमानसंह्रियमाणानन्तसंविदैक्यशाली परिक- ल्पितः सन् अदृष्टसंदर्शनमेवमख्यातिरूपमण्डं मायामलम् , अण्डं च भावानां भेदाख्यं सारं लुम्पति एवमदृष्टम् , एतद्धृदयमण्डलोऽपि च- त्वार्यण्डान्येव, लोपः संकोचः तद्योगि, एवमेष विद्यामायोभयात्मा परमेश्वर एक एव चिद्धनः, यथोक्तम्

'दर्शनं तु परा देवी स्मरणं च परापरा ।
विकल्पस्त्वपरा देवी त्रिकशक्तिमयः प्रभुः ॥
मायाविद्ये उभे तस्य माया तु चतुरण्डिका ।
विद्या स्वरूपसंवित्तिरनुग्रहमयी शिवा ॥'

इति । यदि तु योगप्राधान्यं तदा श्रीपूर्वादि- शास्त्रनिरूपितं पूर्वमेव व्रतादि कृत्वा 'अस्यो- च्चारे कृते' इत्यादि स्पष्टमेव व्याख्येयं, यतो 1