पृष्ठम्:श्रीपरात्रिंशिका.pdf/२८२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५२
परात्रिंशिका

नात्र मण्डलादिदीक्षोपयोगः, एवमेव कश्चित्- परशक्तिपातानुगृहीतो वेत्ति यः 'एतज्ज्ञानमेव हि दीक्षा कान्यात्र दीक्षा' अत एव एवं जानन् विभुना भैरवभट्टारकेण दीक्षितोऽत एव स्वयं गृहीतमन्त्रश्च-इत्येतद्धृदयातिरिक्तमन्त्रविषयम्, नहि अयं मन्त्रो-हृदयमयत्वात् , मन्त्रमहेशत- न्महेशरूपोत्तीर्णत्वात् अस्य, पुस्तकेष्वलेख्यमे- वेदं 'हृदयमिति' परशक्तिपातानुग्रहादेव एत- ल्लाभस्तत्त्वत इति निर्णीतम् । तथा यः कश्चि- दिति-जातिव्रतचर्यादिनैरपेक्ष्यमत्र वेदनमेव

१ यदुक्तम् 'स्वयंगृहीतमन्त्राश्च क्लिश्यन्ते चाल्पबुद्धयः । लिपिस्थितस्तु यो मन्तो निर्वीर्यः सोऽत्र कल्पितः । संकेतबलतो नास्य पुस्तकात्प्रथते महः ।' इति । तथा पुस्तकाधीतविद्या ये दीक्षासमयवर्जिताः। तापसाः परहिंसादिवश्या इह चरन्त्यलम् । न च तत्वं विदुस्तेन दोषभाज इति स्फुटम् ॥'

इति ।