पृष्ठम्:श्रीपरात्रिंशिका.pdf/२८३

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५३
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता हि प्रधानम् , स सिद्धिभाक् योगी- 'योगमे- कत्वमिच्छन्ति' इति, यतो-ज्ञानदानमायाक्ष- पणलक्षणा च तस्यैव दीक्षा, चकारोऽवधारणे, ततश्च सर्वतो मन्तव्यः तदाह - स एव सिद्धि- भाग्योगी, स एव दीक्षितः नित्यमिति ॥१८॥

अनेन ज्ञातमात्रेण
 ज्ञायते सर्वशक्तिभिः।

 सर्वाभिः देवताभिः सर्वशक्तिभिश्च सर्वज्ञै- रसौ ज्ञायते एतज्जानन्नेव तैरपि यत्किंचित् ज्ञायते तदनेन ज्ञातमात्रेण ज्ञायते इति प्राग्वत्। सर्वाभिः शक्तिभिरिति करणे तृतीया ॥

। यथोक्तम् 'ददाति ज्ञानसद्भावं क्षिपयत्यखिलं मलम् । दानक्षपणधर्मस्वाद्दीक्षेति हि प्रकीर्तिता ॥ इति । पं० ४ क० ग० पु० मन्तव्यः स एव सिद्धिभाग्योगी दीक्षितः सिद्धि-

भागेव योग्येव दीक्षित एव सः, तदाह नित्यमिति इति पाठः ।