पृष्ठम्:श्रीपरात्रिंशिका.pdf/२८४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५४
परात्रिंशिका

तथा

शाकिनीकुलसामान्यो
 भवेद्योगं विनापि हि ॥ १९॥

 अनेन ज्ञातमात्रेण योगमाभ्यासिकं मायी यदेहपातावाप्ततदैक्यरूपं च विनापि शाकिनी- कुलस्य- विशेषस्पन्दात्मनः, सामान्यस्पन्दरूपोऽकुलरूपः शक्तिचक्रेश्वरो भवेदिति ॥ १९ ॥

किंच

अविधिज्ञो विधानज्ञो
 जायते यजनं प्रति ॥ २० ॥

 विधिः-क्रिया ज्ञानं तद्यस्य द्वयं नास्ति स पशुः, यथोक्तं किरणायाम्

'पशुर्नित्यो ह्यमूर्तोऽज्ञो निष्क्रियो निर्गुणः प्रभुः ।
व्यापी मायोदरान्तःस्थो भोगोपायविचिन्तकः ॥'

इति, स पशुरपि अनेन ज्ञातमात्रेण, विधानं ज्ञा च यस्य स-कर्ता ज्ञाता च विषयसंगतक-