पृष्ठम्:श्रीपरात्रिंशिका.pdf/२८५

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५५
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

रणं प्रति जायते, यजनं च अस्यापूर्णमपि पूर्णं भवतीति-सर्वमयत्वात् हृदयस्य ॥ २० ॥

तथाहि

कालाग्निमादितः कृत्वा
 मायान्तं ब्रह्मदेहगम् ।
शिवो विश्वाद्यनन्तान्तः
 परं शक्तित्रयं मतम् ॥ २१ ॥

 कालाग्नेर्धरातत्त्वादिभुवनात् मायातत्त्वं या वत् ब्रह्मणः सकारस्य देहे विश्वभुवनात् विद्या तत्त्वादेरारभ्य यावत् शिवोऽनाश्रितशक्तिरूपः अनन्तस्य-अकारस्य अन्तः परं विसर्गात्मकं शक्तित्रयं तच्च परम् , उक्तं च 'सार्णेन' इत्यादि ॥ २१ ॥

तदन्तर्वर्ति यत्किंचित्-
 शुद्धमार्गे व्यवस्थितम् ।

-