पृष्ठम्:श्रीपरात्रिंशिका.pdf/२८६

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५६
परात्रिंशिका

अणुर्विशुद्धमचिरा-
 दैश्वरं ज्ञानमश्नुते ॥ २२॥

 यत् किंचिद्वस्तु व्यवस्थितं विचित्रावस्थं तत् हृदयबीजान्तर्वर्ति शुद्धं भवेत् , तदेव चै- श्वरं ज्ञानम् , अणुः-अण्यते प्राणिति अणति नदति परिमितोच्चारात् मूर्धन्यो भगवत्प्रभावा- दचिरादेव प्राप्नोति ॥ २२ ॥

1 विचित्रावस्था संजातास्येति व्यवस्थितं, तारकादित्वादितच् । २ नदनरूपतया मूर्धन्यो भवन् ऐश्वरं ज्ञानमचिरात् प्रामोति न तु शुद्धबोधारमकत्वेऽपि येषां नोत्तमकर्तृता । निर्मिताः स्वात्मनो भिन्ना भर्त्रा ते कर्तृतास्ययात् ॥' इत्यादिनीस्या विशुद्धबोधारमकत्वमेव, यथा च श्रीस्पन्दसूत्रेषु तदा तस्मिन्महाव्योम्नि प्रलीनशशिभास्करे । सौषुप्तपदवन्मूढः प्रबुद्धः स्यादनावृतः ॥' इति । अयमेव च ब्रह्मज्ञानशिवज्ञानयोरन्योन्यं भेदः, तथाहि-मायो- त्तीर्णतायां हि तत्रैकत्र ब्रह्माप्तिरपरत्र च विज्ञानाकलावस्थेति सूक्ष्मबो धवतां विवेच्योऽत्रेदृशः क्रमः, अपराबोधेऽपि न कश्चिद्दोष इति ।

6