पृष्ठम्:श्रीपरात्रिंशिका.pdf/२८७

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५७
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

कथम्

तच्चोदकः शिवो ज्ञेयः
 सर्वज्ञः परमेश्वरः।
सर्वगो निर्मलः स्वच्छ-
 स्तृप्तः स्वायतनः शुचिः ॥२३॥

 यः - तच्चोदको गुरुः स शिव एव ज्ञेयः, शिव एव तच्चोदकः, स चाज्ञेयो ज्ञातैव, स्वायतनः- स्वान् अयान् विज्ञानरूपान् भावांस्तनोतीति । सर्वं चैतद्विस्तरतो निर्णीतमेव ॥ २३ ॥

१ अयमन्त्राभिप्रायः- तस्यैश्वर्यस्य चोदको गुरुरेव शिवो ज्ञेयः विशु- द्धस्वरूपतायां लब्धायां स्वातन्त्र्यलक्षणमैश्वर्यं यद्यपि अयत्नसिद्धमेव तथापि तन्न द्वयी गतिः-नियतिरागतः, यथोक्तम् 'वैष्णवाद्याः समस्तास्ते विद्यारागेण रञ्जिताः । न विदन्ति परं तरवम् इति, तदर्थमेव चोक्तं तच्चोदक इति, तथोक्तम् 'मन्त्रत्वमेति संबोधादनन्तेशेन कल्पितात् ।' इति, तदर्थमेव चात्र तच्चोदक इति, तेन न केवलं ज्ञानमेव स्वविमर्श- लक्षणं स्वभावहेतुरित्युक्तेर्भावनाप्राधान्यं शैवशास्त्रेषु कथ्यते तत एव चोक्तं 'स्वतः शास्त्रतो गुरुत' इति 'सम्यक् ज्ञानम् ' इति । ..........

33