पृष्ठम्:श्रीपरात्रिंशिका.pdf/२८८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५८
परात्रिंशिका

एवं विस्तरशोऽभिधाय तात्पर्येण निगमयति

यथा न्यग्रोधबीजस्थः
 शक्तिरूपो महाद्रुमः।
तथा हृदयबीजस्थं
 जगदेतच्चराचरम् ॥ २४ ॥
एवं यो वेत्ति तत्त्वेन
 तस्य निर्वाणगामिनी।
दीक्षा भवत्यसंदिग्धा
 तिलाज्याहुतिवर्जिता ॥ २५ ॥

इह असत् तावन्न किंचित् - इत्युक्तं, विश्वं

१ निगमयतीति-प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि परप्रतिपत्तये पञ्चावयवास्तर्कस्य इति, तत्रावयवचतुष्कसिद्धार्थगर्भीकारेण साध्योपसंह- रणं निगमनं, तेन-सिद्धमर्थं साधयति निगमयतीत्यर्थः । २ यथा शिवदृष्टौ 'शशशृङ्गादिकेनापि विभोरस्ति समन्वयः । इति । तथा 'अख्यातिर्यदि न ख्याति ख्यातिरेवावशिष्यते ।

ख्यातिश्चेरख्यातिरूपत्वाख्यातिरेवावशिष्यते ।।