पृष्ठम्:श्रीपरात्रिंशिका.pdf/२८९

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५९
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

च विश्वात्मकमिति, ततश्च यथा वटवीजे तत्स मुचितेनैव वपुषा अङ्कुरविटपपत्रफलानि तिष्ठन्ति एवं विश्वमिदं हृदयान्तः' एवं परिज्ञानमेव असंदिग्धा निर्वाणदीक्षा, यथोक्तम्

'इयमेवामृतमाप्तिरयमेवात्मनो ग्रहः ।
इयं निर्वाणदीक्षा च शिवसद्भावदायिनी ॥'

इति । अन्या अपि दीक्षा भोगान् वितरेयुरपि एतत्परिज्ञानमेव तु तत्त्वतो दीक्षेति, तत एवात्र सर्वोत्तरत्वं - कुलशास्त्रेभ्योऽपि आधिक्यात् , यथाहि तुलाङ्केषु ऊर्ध्वमूर्ध्वं परिमितेऽपि उन्नत्यवनतियोगेऽनन्तमन्तरं परिमाणस्य भवति,

तथा 'कः सद्भावविशेषः कुसुमाद्भवति गगनकुसुमस्य । यत्स्फुरणानुप्राणो लोकः स्फुरणं च सर्वसामान्यम् ॥' इति । तथा विश्वोन्मेषदशायां दैशिकनाथस्य यावान्प्रसरः । कलिलावस्थायां विश्वनिमेषेऽपि तावान्भवति ॥ इति मयूराण्डरसन्यायोऽत्र स्फुटं सिद्ध इति बोध्यम् । पं० ११ क० पु० योगेनन्तरमन्तरमिति, ख० पु० योगे नान्तमन्तरमिति

पाठः।