पृष्ठम्:श्रीपरात्रिंशिका.pdf/२९०

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६०
परात्रिंशिका

एवमूर्ध्वोर्ध्वतत्त्वेषु देशकालभोगसंवेदनानाम् अनन्तमेवान्तरमिति एवमेवाधिकीभवेत् षट्त्रिंशतोऽपि अधिकं भवेदिति, यतश्च संवेदनमेव दीक्षा तत एव उक्तमेतत्संविदनुप्रविष्टो वीरो वा योगिनी वा निजपरसत्तासततोदिता मायीयबाह्यान्तःकरणरश्मिदेवताद्वादशकचक्रेश्वरपरभैरवभट्टारकात्मकनिर्णीततत्त्वाहंरूपानुगृहीतेन कृतदीक्षादाविति, एवमनुत्तरपदमुत्तररूपापरि- त्यागेनैव यथा भवति तथा व्याससमासाभ्यां भूयसा निर्णीतम् , अधुना तु इदं वक्तव्यमुच्यते तावत्सर्वशास्त्रेषु

'मनुष्यदेहमास्थाय च्छन्नास्ते परमेश्वराः।
निर्वीर्यमपि ये हार्दं त्रिकार्थं समुपासते ॥'

इति, तत्कथमस्योपासा, तथापि चानुत्तरसत्त- यात्रापि भाव्यम् अनुत्तरत्त्वादेव, सा च कथम्? इत्याकाङ्क्षां निर्णिनीषुर्ग्रन्थान्तरमवतारयति

मूर्ध्नि वक्त्रे च हृदये
 गुह्ये मूर्तौ तथैव च।