पृष्ठम्:श्रीपरात्रिंशिका.pdf/२९१

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६१
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

न्यासं कृत्वा शिखां बध्द्वा
 सप्तविंशतिमन्त्रिताम् ॥ २६ ॥
एकैकं तु दिशां बन्धं
 दशानामपि योजयेत् ।
तालत्रयं पुरा दत्त्वा
 सशब्दं विघ्नशान्तये ॥ २७ ॥
शिखासंख्याभिजप्तेन
 तोयेनाभ्युक्षयेत्ततः।
पुष्पादिकं क्रमात्सर्वं
 लिङ्गे वा स्थण्डिलेऽथ वा ॥२८॥
चतुर्दशाभिजप्तेन
 पुष्पेणासनकल्पना।
तत्र सृष्टिं यजेहीरः
 पुनरेवासनं ततः ॥ २९॥
सृष्टिं तु संपुटीकृत्य
 पश्चाद्यजनमारभेत् ।


पं० ग० पु० शिखासप्ताभिजप्तेनेति पाठः ।