पृष्ठम्:श्रीपरात्रिंशिका.pdf/२९२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६२
परात्रिंशिका

सर्वतत्त्वसुसंपूर्णां
 सर्वाभरणभूषिताम् ॥ ३० ॥
यजेद्देवीं महेशानी
 सप्तविंशतिमन्त्रिताम् ।
ततः सुगन्धिपुष्पैस्तु
 यथाशक्त्या समर्चयेत् ॥३१॥
पूजयेत्परया भक्त्या
 आत्मानं च निवेदयेत् ।
एवं यजनमाख्यात-
 मग्निकार्येऽप्ययं विधिः ॥ ३२ ॥

 मूर्धादीनि वाह्यतयोचितरूपाणि, वस्तुतः परंब्रह्मरूपाभिहितपश्चात्मकव्योमादिधरण्यन्तसतत्त्वेशानादिसारचिदुन्मेषेच्छाज्ञानक्रियारूपाण्येव-मन्त्रलिङ्गात्, यथा मन्त्राः

'१ ईशानमूध्ने, २ तत्पुरुषवक्राय, ३ अघोरहृदयाय, ४ वामदेवगृह्याय, ५ सद्योजातमूर्तये' .