पृष्ठम्:श्रीपरात्रिंशिका.pdf/२९४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६४
परात्रिंशिका

सशब्दं मध्यमान्तं, शब्दनं हि शब्दः, तच्च मध्यमैव-वैखर्याः तच्छेषात्मकत्वात् - इत्युक्तं बहुशः । एषा च विघ्नानाम् - अभेदात्मनि अखण्डिते परमात्मनि खण्डनात्मकसंकोचसारभेदकल्लोलकलङ्कानां, शान्तिः-अभेदभैरवार्णवतादात्म्यमेव, यदाहुः श्रीसोमानन्दपादाः

'अस्मद्रूपसमाविष्टः स्वात्मनात्मनिवारणे ।
शिवः करोतु परया नमः शक्त्या ततात्मने ।।

इति । एवमेव सप्तविंशतिजप्तं तोयमित्यर्घपात्र- विधिः, तोयमत्र सर्वमेव हृदयद्रवात्म-अनियत्रितत्वात् असंकोचदानाच्च, पुष्पं व्याख्यातम्, लिङ्गं च

'……………………….यत्र लीनं चराचरम् ।

इत्येतदपि निर्णीतमेव, विश्वात्मनि तत्त्वे आ- सि-क्रियायामधिकरणस्य कर्तुश्च आसनस्य स्वातन्त्र्यात् कल्प्यमानस्य, स्वातन्त्र्येण कल्प्य-


पं० ८ ग० पु० करोतु निजयेति पाठः ।

पं० ११ क० पु० असंकोचाधानादिति पाठः ।