पृष्ठम्:श्रीपरात्रिंशिका.pdf/२९७

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६७
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

त् - अन्यस्य निवेद्यस्याभावात् , एवं च आत्मा- नमेव निःशेषेण निरुत्तरपदं वेदयेत् - अनुत्तर- सत्तानुसारेण, अत्र संभावनायां लिङ्-सतत- मेवमयत्वेनैवावस्थितेः इति हि उक्तम् , उपासा- नुसारेण तु नियोगादावपि । एवम् आ-सम- न्तात् सर्वत्र सदा यत् ख्यातं 'पारमार्थिकशुद्ध- शिवस्वरूपप्रथात्मिका ख्यातिः तदेव यजनं परभैरवसंविदेवतायाः पूजनात् तया च तादा- त्म्यसम्यग्गमनरूपताकरणात् सर्वत्र च परि- मितात्मीयात्मरूपस्वत्वनिवृत्त्या परिपूर्णचिद्धन- शिवशक्त्यात्मकात्मीयरूपपरस्वत्वापादनात्म- कात् दानाच्च, एतदेव अग्निकार्य-सर्ववासना- बीजानां सर्वपदार्थेन्धनग्रासलाम्पट्यजाज्वल्य- माने शिवसंघदृक्षोभक्षुभितपरशक्त्यरणिसतत- समुदितपरभैरवमहामहसि सर्वाभिष्वङ्गरूपम- हास्नेहाज्यप्राज्यप्रतापे हवनात् अन्तर्दाहात् , अयमेव अग्निकार्ये विधिर्दीक्षापर्यन्तोऽपि, नान्यः पृथक् कश्चित्-इति तात्पर्यम् ।