पृष्ठम्:श्रीपरात्रिंशिका.pdf/२९८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६८
परात्रिंशिका

'स्वस्वरूपपरिज्ञानं मन्त्रोऽयं पारमार्थिकः ।
दीक्षेयमेष योगश्च क्रियायामप्यनुत्तरः॥'

अत एव प्रागेवोक्तम् - यथान्यत्र मन्त्रोपासादि- क्रियोत्तरेण ज्ञानग्रन्थेनोत्तीर्यते नैवमिहेति, यदु- क्तम् 'उत्तरस्याप्यनुत्तरम्' इति सूत्रे तदेवैतद- न्तेन ग्रन्थेन निर्व्यूढं - हृदयस्यैव यागदीक्षा- क्रियारूपत्वात् तस्य चानुत्तरत्वात् । श्रीसो- मानन्दपादैस्तु स्रुक्स्रुवसंस्कारादि सर्वसहत्व- प्रतिपादनेनापि अखण्डितत्वाभिप्रायेण निरू- पितम्, एवमादौ अङ्गहृद्भेदधूलिभेदाद्यपि तद्रू- पं युज्यते न किंचिदत्र, नाप्युपपद्यते नाप्यस्ति नाप्यधरशास्त्रपातित्वेन तदुपजीवकत्वम्, इति निर्णीतप्रायमेव ॥


०९१ उत्तरस्याप्यनुत्तरमित्यस्य व्याख्याने प्रागेवोक्तमेतत् । २ द्वन्द्वान्ते श्रूयमाणः शब्दः प्रत्येकमभिसंबध्यते इति रूपत्वशब्दस्य प्रत्येकमत्र संबन्धः । ३ शिवशक्तिरूपौ हि स्रक्स्रुवौ परस्परोन्मुख्येन स्थापनीयाविति बाह्येऽपि क्रमः।

४ चूर्णिकादिभेदो न्यासरूपः ।