पृष्ठम्:श्रीपरात्रिंशिका.pdf/२९९

पुटमेतत् सुपुष्टितम्
२६९
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

 किमेवमुपासायां भवति ? इत्यवतरति

कृतपूजाविधिः सम्यक्-स्मरन्बीजं प्रसिद्ध्यति ।

 एवमनवरतं व्यवहारेष्वपि बीजं स्मरन्नेव - स्मरणादेव कृतपूजाविधिः, प्रकर्षेणान्यकुलशास्त्रादिशैववैष्णवान्तशास्त्रातिरेकेणैव भगवद्भैरवभट्टारकरूपसमाविष्टः निजपरसंविच्चमत्कारवशनिर्मितभावक्रीडाडम्बरो जीवन्मुक्त एव प्रथमोक्तनयेन भवति इत्यनुभव एवायमावर्तते न त्वन्यत् किंचिदिति ‘स्मरणम्' उक्तम् । श्रीमतशास्त्रेष्वेवमेव, उपासकस्त्वननुप्रविष्टवीर्यसत्तासारहृदयोऽपि क्रमपूजामाहात्म्यात् बीजं सम्यक् स्मरन् प्राप्तहृदयाख्यतत्त्वमन्त्रवीर्यः प्रकर्षेण सिद्ध्यति - क्रमपूजामाहात्म्यादेव तारतम्यातिशयात् स्वयं वा प्रसन्नगुरुभट्टारकवदन-


पं० ११ क० ग० पु. वीर्यः सत्तासारेति पाठः ।