पृष्ठम्:श्रीपरात्रिंशिका.pdf/३०१

एतत् पृष्ठम् परिष्कृतम् अस्ति
२७१
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

रासभी वडवा वापि स्वं जगज्जन्मधाम यत् ।
समकालं विकास्यैव संकोच्य हृदि हृष्यति ।
तथोभयमहानन्दसौषुम्नहृदयान्तरे ।
स्पन्दमानमुपासीत हृदयं सृष्टिलक्षणम् ॥
ध्यायन्स्मरन्प्रविमृशन्कुर्वन्वा यत्र कुत्रचित् ।
विश्रान्तिमेति यस्माच मोल्लसेद्धृदयं तु तत् ।।
तदेकमेव यत्रैतज्ज्ञानं वैकल्पिकं परम् ।
तत्त्वानि भुवनाभोगाः शिवादिपशुमातरः ॥
स्वं स्वं विचित्रं विन्दन्तः स्वरूपं पारमार्थिकम् ।
चित्रीकुर्वन्त्येव यान्ति तां चित्रां संविदं पराम् ।।

१ संकोच्यान्तर्मुखीकृत्य विकास्य बहिर्मुखीकृत्य हृष्यति स्वात्मन्या- नन्दातिशयमनुभवति तथैवोभयस्य भैरवस्य भैरच्याश्च महानन्दं विसर्ग- भुवमित्यर्थः । एतदेव हि नामास्य परस्य प्रकाशस्थानन्यसाधारणं रूपं तत् सदैव सृष्टिसंहारकारित्वमिति अन्यथा हि अस्य जडेभ्यो वैलक्षण्यं न स्यादिति । २ उक्तं च एकीकृतमहामूलशूलवैसर्गिके हृदि । परस्मिन्नेति विश्रान्तिं सर्वापूरणयोगतः ॥ अथ तत्पूर्णवृत्त्यैव विश्वावेशमयं स्थितम् । प्रकाशस्यात्मविश्रान्तावहमित्येव दृश्यताम् ॥ अनुत्तरविमर्श प्राग्व्यापारादिविवर्जिते । चिद्विमर्शः पराहंकृत् प्रथमोलासिनि स्फुरेत् ॥' इति ।

पं० १० क० ग० पु० न्त्येष यन्ति इति पाठः ।