पृष्ठम्:श्रीपरात्रिंशिका.pdf/३०४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२७४
परात्रिंशिका

२७४ परात्रिंशिका -  एतदेव हृदयबीजं दीपकाभावात् गमागमशून्यत्वात् सततोदितत्वाच्च अनाद्यन्तं, तदेव विकसत् परिपूर्णत्वं यातं तिथीनां मध्यगंहृदयत्वात् , तदेव संकोचविकासधर्मोपचरितप- द्मभावे कन्दे गुह्ये हृदैव ध्यायेत्, किं च अस्य ध्यानमाह ‘सोमांशं' षोडशकलात्मकं सोमरूपम् अभितः समन्तादस्येत् क्षिपेत् - परिपूर्णच- न्द्रस्यास्य हृत्कर्णिकानिवेशिकलया स्वस्वद्वादशान्तगपुष्पायुदयस्थानात्, आहृतामृतस्पर्शः प्रोद्यन्नादानुसारचुम्बिकालक्षणकाकचञ्चपुटमुद्रामुद्रितः पुनस्तदपस्मृतशिशिरामृतरसास्वाद- विकस्वरहार्दसोमप्रसरन्नादनिर्मथितसुधापानपूरितचन्द्रमाः पुनः सूर्यकलोदयमयानच्कस- कारमात्रविश्रान्तो रोमाञ्चस्तोभोत्पतनवाष्पकम्पस्तम्भाद्यनुगृहीतदेहोऽभ्यासं कुर्यादिति भट्टधनेश्वरशर्मा । आद्यन्तरहितं सकारमात्रं षोडशाकारादितिथिसहितं कलाग्रासक्रमेण हृदयेऽन्तर्निक्षिपेत् नालिकाजलाकर्षणवत् चलनक-