पृष्ठम्:श्रीपरात्रिंशिका.pdf/३०५

एतत् पृष्ठम् परिष्कृतम् अस्ति
२७५
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

म्पनस्पन्दनसमाविष्टमूलाधारत्रिकोणभद्रकन्दहृन्मुखमुद्रासु युगपदेव विलम्बितमध्यद्रुततर- तदतिशयादिधाराप्राप्तिवशगलितसूर्यसोमकलाजालग्रासे आद्यन्तरहितं कृत्वा आद्यन्ताभ्या- मेतद्बीजमातृकापेक्षया औकारसकाराभ्यां रहितं विश्लेषणयुक्तिलब्धवीर्यपरिचयं ध्रुवं विसर्गात्मकं विकसतां पञ्चदशानां तिथीनां यन्मध्यं तिथिरहितमेव ग्रस्तकालं षोडशं ततोऽपि गच्छति यत् ‘सप्तदशी कला' इत्युक्तम् सोमस्य षोडशात्मकम् आमृतमंशं हृत्कमले ध्यायेत् तदेव नित्यमभ्यस्येदित्यस्मद्गुरवः, तथाहि-सहोमया भगवत्या संघट्टात्मकसमापत्तिक्षोभेण तत्त्वनिर्मथनात्मना वर्तते इति सोमो भट्टारकः तस्य समग्रभावावयविनः परिपूर्णाहमात्मनोंऽशो नीलसुखादिः तदेवमभ्यस्यति स्वस्वरूपावर्तनस्सृष्टिसंहारावर्तचक्राक्षमालिकया पुनः पुनरा- वर्तयतीति यत् सत्यं भाव्यते स एव एष सततोदितो हृदयजपः, संभावनायां लिङ् ।