पृष्ठम्:श्रीपरात्रिंशिका.pdf/३०६

एतत् पृष्ठम् परिष्कृतम् अस्ति
२७६
परात्रिंशिका

अन्ये तु हृत्स्थानात् द्वादशान्तं यश्चारः षट्विंशदङ्गुलः तत्र सूर्यरूपतयोल्लास्य बहिरर्धतुटि- मात्रं विश्रम्य अविनाश्यमृताख्यविसर्गरूपसोमकलोदये सपादाङ्गुलद्वितयमात्रायां तुटौ तुटौ प्रत्येकं चन्द्रकलापरिपूरणे पञ्चदश्यां तुटौ पूर्णायां हृत्पद्मे पूर्णश्च भवति अर्धतुटिमात्रं च तत्रापि विश्रान्तिः, एवं षोडशतुट्यात्मा षट्त्रिंशदङ्गुलश्चारो भवति इत्यवस्थायामाद्यन्तरहितम् अनस्तमितत्वात् विकसत्सु द्वितीयादिषु अन्तर्गतं सोमांशं विसर्गरूपं हृत्पद्ममध्ये विश्लिष्य सप्तदशात्मकं परिशीलनेन ध्यायन् कलाग्रासाभ्यासं कुर्यात् इत्यादि समादिशन् , सर्वं चैतत् युक्तमेव मन्तव्यम् । अत्र चावृत्त्यानन्तं व्याख्यानं सूत्रत्वादुपपन्नमेव यत उक्तम् 'अनन्ता- र्थसूत्रणात्सूत्रम्' इति 'त्रिंशिका चानुत्तरसूत्रम्' इति गुरवः । एवं पूर्वेष्वपि श्लोकसूत्रेषु ॥३३॥