पृष्ठम्:श्रीपरात्रिंशिका.pdf/३०८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२७८
परात्रिंशिका

एतदभ्यासतः सिद्धिः
 सर्वज्ञत्वमवाप्यते ॥ ३५ ॥

 मन्त्राणां शास्त्रान्तरीयाणां वर्णानां च फलमेवमवाप्यते नान्यथेति समाप्तौ रुद्रस्य रुद्रायाश्च यद्यामलं-संघट्टः निर्विभागप्रश्नोत्तररूपस्वरूपामर्शनप्रसरात् आरभ्य यावद्बहिरनन्ता- परिगणनीयसृष्टिसंहारशतभासनं यत्रान्तः, तदेतदकुलोपसंहृतमेव-इति प्रसंख्याननिगमनम्। 'एतदभ्यासात्सर्वज्ञत्वम्' इति योगफलनिगमनम् । सततोदितं हि एतत्सर्वस्य इति शिवम् ॥


इत्यं प्रपन्नजनतोद्धरणप्रवृत्त-
 श्रीमन्महेश्वरपदाम्बुजचञ्चुरीकः ।
वृत्तिं व्यधात्रिकरहस्यविमर्शगर्भां
 काश्मीरिकाच्चुखलकादधिगम्य जन्म ॥१॥
एतावदेतदिति कस्तुलयेत्पसह्य
 श्रीशांभवं मतमनर्गलिताश्च वाचः ।

पं० ८ क० पु० संहृतिमेतीति, ख० पु० संहतमेतीति पाठः ।